|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.82. अध्यायः 082
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनम्प्रति शकुनिना द्यूताय प्रोत्साहनम्॥ 1॥ धृतराष्ट्राज्ञया शिल्पिभिः सभानिर्माणम्॥ 2॥ धृतराष्ट्रेण पाण्डवानयनाय विदुरप्रेषणम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
शकुनिरुवाच॥
यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे।
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर॥ 2-82-1(14607)
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः।
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे॥ 2-82-2(14608)
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये।
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत॥ 2-82-3(14609)
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम्॥ 2-82-4(14610)
दुर्योधन उवाच। 2-82-5x(1533)
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित्।
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि॥ 2-82-5(14611)
धृतराष्ट्र उवाच। 2-82-6x(1534)
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥ 2-82-6(14612)
दुर्योधन उवाच॥ 2-82-7x(1535)
`कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते।
केवलं धर्ममेवाह न तद्विजयसाधकम्॥ 2-82-7(14613)
जयश्च धर्मतोपेतस्तथैव भरतर्षभ।
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ'॥ 2-82-8(14614)
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः।
पाण्डवानां हिते युक्तो न तथा मम कौरव॥ 2-82-9(14615)
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन॥ 2-82-10(14616)
भयं परिहरन्मत्त आत्मानं परिपालयन्।
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति॥ 2-82-11(14617)
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्॥ 2-82-12(14618)
धृतराष्ट्र उवाच॥ 2-82-13x(1536)
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते।
वैरं विकारं सृजति तद्वै शस्त्रमनायसम्॥ 2-82-13(14619)
अनर्थमर्थं मन्यसे राजपुत्र
सङ्ग्रन्थनं कलहस्यातियाति।
तद्वै प्रवृत्तं तु यथाकथञ्चित्
सृजेदसीन्निशितान्सायकांश्च॥ 2-82-14(14620)
दुर्योधन उवाच॥ 2-82-15x(1537)
द्यूते पुराणैर्व्यवहारः प्रणीत-
स्तत्रात्ययो नास्ति न सम्प्रहारः।
तद्रोचतां शकुनेर्वाक्यमद्य
सभां क्षिप्रं त्वमिहाज्ञापयस्व॥ 2-82-15(14621)
स्वर्गद्वारं दीव्यतां नो विशिष्टं
तद्वर्तिनां चापि तथैव युक्तम्।
भवेदेवं ह्यात्मना तुल्यमेव
दुरोदरं पाण्डवैस्त्वं कुरुष्व॥ 2-82-16(14622)
धृतराष्ट्र उवाच। 2-82-17x(1538)
वाक्यं न मे रोचते यत्त्वयोक्तं
यत्ते प्रियं तत्क्रियतां नरेन्द्र।
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं
न हीदृशं भावि वचो हि धर्म्यम्॥ 2-82-17(14623)
दृष्टं ह्येतद्विदुरेणै सर्वं
विपश्चिता बुद्धिविद्यानुगेन।
तदेवैतदवशस्याभ्युपैति
महद्भयं क्षत्रियजीवघाति॥ 2-82-18(14624)
वैशम्पायन उवाच॥ 2-82-19x(1539)
एवमुक्त्वा धृतराष्ट्रो मनीषी
दैवं मत्वा परमं दुस्तरं च।
शशासोच्चैः पुरुषान्पुत्रवाक्ये
स्थितो राजा दैवसंमूढचेताः॥ 2-82-19(14625)
सहस्रस्तम्भां हेमवैदूर्यचित्रां
शतद्वारां तोरणस्फाटिकाढ्याम्।
सभामग्र्यां क्रोशमात्रायतां मे
तद्विस्तारामाशु कुर्वन्तु युक्ताः॥ 2-82-20(14626)
श्रुत्वा तस्य त्वरिता निर्विशङ्काः
प्राज्ञा दक्षास्तां तदा चक्रुराशु।
सर्वद्रव्याण्युपजह्रुः सभायां
सहस्रशः शिल्पिनश्चैव युक्ताः॥ 2-82-21(14627)
कालेनाल्पेनाथ निष्ठां गतां तां
सभां रम्यां बहुरत्नां विचित्राम्।
चित्रैर्हैमैरासनैरभ्युपेता-
माचख्युस्ते तस्य राज्ञः प्रतीताः॥ 2-82-22(14628)
ततो विद्वान्विदुरं मन्त्रिमुख्य-
मुवाचेदं धृतराष्ट्रो नरेन्द्रः।
युधिष्ठिरं राजपुत्रं च गत्वा
मद्वाक्येन क्षिप्रमिहानयस्व॥ 2-82-23(14629)
सभेयं मे बहुरत्ना विचित्रा
शय्यासनैरुपपन्ना महार्हैः।
सा दृश्यतां भ्रातृभिः सार्धमेत्य
मुहृद्द्यूतं वर्ततामत्र चेति॥ 2-82-24(14630)
वैशम्पायन उवाच॥ 2-82-25x(1540)
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः।
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह॥ 2-82-25(14631)
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः।
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्॥ 2-82-26(14632)
विदुर उवाच॥ 2-82-27x(1541)
नाभिनन्दे नृपते प्रैषमेतं
मैवं कृथाः कुलनाशाद्बिभेमि।
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या-
देतच्छङ्के द्यूतकृते नरेन्द्र॥ 2-82-27(14633)
धृतराष्ट्र उवाच। 2-82-28x(1542)
नेह क्षत्तः कलहस्तप्स्यते मां
न चेद्दैवं प्रतिलोमं भविष्यत्।
छात्रा तु दिष्टस्य वशे किलेदं
सर्वं जगच्चेष्टति न स्वतन्त्रम्॥ 2-82-28(14634)
तदद्य विदुर प्राप्य राजानं मम शासनात्।
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्॥ ॥ 2-82-29(14635)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्व्यशीतितमोऽध्यायः॥ 82 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-82-3 ग्लहान् पणान्॥ 2-82-4 आस्फुरमक्षविन्यासपातनादिस्थानम् ॥ 2-82-8 विनयतः अनयात्॥ 2-82-16 दुरोदरं द्यूतम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|